Муктика Упанишада
मुक्तिकोपनिषत् ॥ / muktikopaniṣat ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । / oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ / pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥
ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ तत्सत् ॥ / oṃ śāntiḥ śāntiḥ śāntiḥ ॥hariḥ oṃ tatsat ॥
ईशाद्यष्टोत्तरशतवेदान्तपटलाशयम् । / īśādyaṣṭottaraśatavedāntapaṭalāśayam ।
मुक्तिकोपनिषद्वेद्यं रामचन्द्रपदं भजे ॥ / muktikopaniṣadvedyaṃ rāmacandrapadaṃ bhaje ॥
हरिः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । / hariḥ oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।

ॐ शान्तिः शान्तिः शान्तिः ॥ / oṃ śāntiḥ śāntiḥ śāntiḥ ॥
ॐ अयोध्यानगरे रम्ये रत्नमण्डपमध्यमे । / oṃ ayodhyānagare ramye ratnamaṇḍapamadhyame ।
सीताभरतसौमित्रिशत्रुघ्नाद्यैः समन्वितम् ॥१॥ / sītābharatasaumitriśatrughnādyaiḥ samanvitam ॥1॥
सनकाद्यैर्मुनिगणैर्वसिष्ठाद्यैः शुकादिभिः । / sanakādyairmunigaṇairvasiṣṭhādyaiḥ śukādibhiḥ ।
अन्यैर्भागवतैश्चापि स्तूयमानमहर्निशम् ॥२॥ / anyairbhāgavataiścāpi stūyamānamaharniśam ॥2॥
धीविक्रियासहस्राणां साक्षिणं निर्विकारिणम् । / dhīvikriyāsahasrāṇāṃ sākṣiṇaṃ nirvikāriṇam ।
स्वरूपध्याननिरतं समाधिविरमे हरिम् ॥३॥ / svarūpadhyānanirataṃ samādhivirame harim ॥3॥
भक्त्या शुश्रूषया रामं स्तुवन्पप्रच्छ मारुतिः । / bhaktyā śuśrūṣayā rāmaṃ stuvanpapraccha mārutiḥ ।
राम त्वं परमात्मसि सच्चिदानन्दविग्रहः ॥४॥ / rāma tvaṃ paramātmasi saccidānandavigrahaḥ ॥4॥
इदानीं त्वां रघुश्रेष्ठ प्रणमामि मुहुर्मुहुः । / idānīṃ tvāṃ raghuśreṣṭha praṇamāmi muhurmuhuḥ ।
त्वद्रूपं ज्ञातुमिच्छामि तत्त्वतो राम मुक्तये ॥५॥ / tvadrūpaṃ jñātumicchāmi tattvato rāma muktaye ॥5॥
अनायासेन येनाहं मुच्येयं भवबन्धनात् । / anāyāsena yenāhaṃ mucyeyaṃ bhavabandhanāt ।
कृपया वद मे राम येन मुक्तो भवाम्यहम् ॥६॥ / kṛpayā vada me rāma yena mukto bhavāmyaham ॥6॥
साधु पृष्टं महाबाहो वदामि शृणु तत्त्वतः । / sādhu pṛṣṭaṃ mahābāho vadāmi śaṛṇu tattvataḥ ।
वेदान्ते सुप्रतिष्ठोऽहं वेदान्तं समुपाश्रय ॥७॥ / vedānte supratiṣṭho'haṃ vedāntaṃ samupāśraya ॥7॥
वेदान्ताः के रघुश्रेष्ठ वर्तन्ते कुत्र ते वद । / vedāntāḥ ke raghuśreṣṭha vartante kutra te vada ।
हनूमञ्छृणु वक्ष्यामि वेदान्तस्थितिमञ्जसा ॥८॥ / hanūmañchṛṇu vakṣyāmi vedāntasthitimañjasā ॥8॥
निश्वासभूता मे विष्णोर्वेदा जाताः सुविस्तराः । / niśvāsabhūtā me viṣṇorvedā jātāḥ suvistarāḥ ।
तिलेषु तैलवद्वेदे वेदान्तः सुप्रतिष्ठितः ॥९॥ / tileṣu tailavadvede vedāntaḥ supratiṣṭhitaḥ ॥9॥
राम वेदाः कतिविधास्तेषां शाखाश्च राघव । / rāma vedāḥ katividhāsteṣāṃ śākhāśca rāghava ।
तासूपनिषदाः काः स्युः कृपया वद तत्त्वतः ॥१०॥ / tāsūpaniṣadāḥ kāḥ syuḥ kṛpayā vada tattvataḥ ॥10॥
श्रीराम उवाच । / śrīrāma uvāca ।
ऋग्वेदादिविभागेन वेदाश्चत्वार ईरिताः । / ṛgvedādivibhāgena vedāścatvāra īritāḥ ।
तेषां शाखा ह्यनेकाः स्युस्तासूपनिषदस्तथा ॥११॥ / teṣāṃ śākhā hyanekāḥ syustāsūpaniṣadastathā ॥11॥
ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसङ्ख्यकाः । / ṛgvedasya tu śākhāḥ syurekaviṃśatisaṅkhyakāḥ ।
नवाधिकशतं शाखा यजुषो मारुतात्मज ॥१२॥ / navādhikaśataṃ śākhā yajuṣo mārutātmaja ॥12॥
सहस्रसङ्ख्यया जाताः शाखाः साम्नः परन्तप । / sahasrasaṅkhyayā jātāḥ śākhāḥ sāmnaḥ parantapa ।
अथर्वणस्य शाखाः स्युः पञ्चाशद्भेदतो हरे ॥१३॥ / atharvaṇasya śākhāḥ syuḥ pañcāśadbhedato hare ॥13॥
एकैकस्यास्तु शाखाया एकैकोपनिषन्मता । / ekaikasyāstu śākhāyā ekaikopaniṣanmatā ।
तासामेकामृचं यश्च पठते भक्तितो मयि ॥१४॥ / tāsāmekāmṛcaṃ yaśca paṭhate bhaktito mayi ॥14॥
स मत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् । / sa matsāyujyapadavīṃ prāpnoti munidurlabhām ।
राम केचिन्मुनिश्रेष्ठा मुक्तिरेकेति चक्षिरे ॥१५॥ / rāma kecinmuniśreṣṭhā muktireketi cakṣire ॥15॥
केचित्त्वन्नामभजनात्काश्यां तारोपदेशतः । / kecittvannāmabhajanātkāśyāṃ tāropadeśataḥ ।
अन्येतु साङ्ख्ययोगेन भक्तियोगेन चापरे ॥१६॥ / anyetu sāṅkhyayogena bhaktiyogena cāpare ॥16॥
अन्ये वेदान्तवाक्यार्थविचारात्परमर्षयः । / anye vedāntavākyārthavicārātparamarṣayaḥ ।
सालोक्यादिविभागेन चतुर्धा मुक्तिरीरिता ॥१७॥ / sālokyādivibhāgena caturdhā muktirīritā ॥17॥
सहोवाच श्रीरामः । / sahovāca śrīrāmaḥ ।
कैवल्यमुक्तिरेकैव परमार्थिकरूपिणी । / kaivalyamuktirekaiva paramārthikarūpiṇī ।
दुराचाररतो वापि मन्नामभजनात्कपे ॥१८॥ / durācārarato vāpi mannāmabhajanātkape ॥18॥
सालोक्यमुक्तिमाप्नोति न तु लोकान्तरादिकम् । / sālokyamuktimāpnoti na tu lokāntarādikam ।
काश्यां तु ब्रह्मनालेऽस्मिन्मृतो मत्तारमाप्नुयात् ॥१९॥ / kāśyāṃ tu brahmanāle'sminmṛto mattāramāpnuyāt ॥19॥
पुनरावृत्तिरहितां मुक्तिं प्राप्नोति मानवः । / punarāvṛttirahitāṃ muktiṃ prāpnoti mānavaḥ ।
यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः ॥२०॥ / yatra kutrāpi vā kāśyāṃ maraṇe sa maheśvaraḥ ॥20॥
जन्तोर्दक्षिणकर्णे तु मत्तारं समुपादिशेत् । / jantordakṣiṇakarṇe tu mattāraṃ samupādiśet ।
निर्धूताशेषपापौघो मत्सारूप्यं भजत्ययम् ॥२१॥ / nirdhūtāśeṣapāpaugho matsārūpyaṃ bhajatyayam ॥21॥
सैव सालोक्यसारूप्यमुक्तिरत्यभिधीयते । / saiva sālokyasārūpyamuktiratyabhidhīyate ।
सदाचाररतो भूत्वा द्विजो नित्यमनन्यधीः ॥२२॥ / sadācārarato bhūtvā dvijo nityamananyadhīḥ ॥22॥
मयि सर्वात्मको भावो मत्सामीप्यं भजत्ययम् । / mayi sarvātmako bhāvo matsāmīpyaṃ bhajatyayam ।
सैव सालोक्यसारूप्यसामीप्या मुक्तिरिष्यते ॥२३॥ / saiva sālokyasārūpyasāmīpyā muktiriṣyate ॥23॥
गुरूपदिष्टमार्गेण ध्यायन्मद्गुणमव्ययम् । / gurūpadiṣṭamārgeṇa dhyāyanmadguṇamavyayam ।
मत्सायुज्यं द्विजः सम्यग्भजेद्भ्रमरकीटवत् ॥२४॥ / matsāyujyaṃ dvijaḥ samyagbhajedbhramarakīṭavat ॥24॥
सैव सायुज्यमुक्तिः स्याद्ब्रह्मानन्दकरी शिवा । / saiva sāyujyamuktiḥ syādbrahmānandakarī śivā ।
चतुर्विधा तु या मुक्तिर्मदुपासनया भवेत् ॥२५॥ / caturvidhā tu yā muktirmadupāsanayā bhavet ॥25॥
इयं कैवल्यमुक्तिस्तु केनोपायेन सिद्ध्यति । / iyaṃ kaivalyamuktistu kenopāyena siddhyati ।
माण्डूक्यमेकमेवालं मुमुक्षूणां विमुक्तये ॥२६॥ / māṇḍūkyamekamevālaṃ mumukṣūṇāṃ vimuktaye ॥26॥
तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ । / tathāpyasiddhaṃ cejjñānaṃ daśopaniṣadaṃ paṭha ।
ज्ञानं लब्ध्वा चिरादेव मामकं धाम यास्यसि ॥२७॥ / jñānaṃ labdhvā cirādeva māmakaṃ dhāma yāsyasi ॥27॥
तथापि दृढता न चेद्विद्ज्ञानस्याञ्जनासुत । / tathāpi dṛḍhatā na cedvidjñānasyāñjanāsuta ।
द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय ॥२८॥ / dvātriṃśākhyopaniṣadaṃ samabhyasya nivartaya ॥28॥
विदेहमुक्ताविच्छा चेदष्टोत्तरशतं पठ । / videhamuktāvicchā cedaṣṭottaraśataṃ paṭha ।
तासां क्रम सशान्तिं च श्रुणु वक्ष्यामि तत्त्वतः ॥२९॥ / tāsāṃ krama saśāntiṃ ca śruṇu vakṣyāmi tattvataḥ ॥29॥
ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः । / īśakenakaṭhapraśnamuṇḍamāṇḍūkyatittiriḥ ।
ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा ॥३०॥ / aitareyaṃ ca chāndogyaṃ bṛhadāraṇyakaṃ tathā ॥30॥
ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः । / brahmakaivalyajābālaśvetāśvo haṃsa āruṇiḥ ।
गर्भो नारायणो हंसो बिन्दुर्नादशिरः शिखा ॥३१॥ / garbho nārāyaṇo haṃso bindurnādaśiraḥ śikhā ॥31॥
मैत्रायणी कौषीतकी बृहज्जाबालतापनी । / maitrāyaṇī kauṣītakī bṛhajjābālatāpanī ।
कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका ॥३२॥ / kālāgnirudramaitreyī subālakṣurimantrikā ॥32॥
सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् । / sarvasāraṃ nirālambaṃ rahasyaṃ vajrasūcikam ।
तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥३३॥ / tejonādadhyānavidyāyogatattvātmabodhakam ॥33॥
परिव्राट् त्रिशिखी सीता चूडा निर्वाणमण्डलम् । / parivrāṭ triśikhī sītā cūḍā nirvāṇamaṇḍalam ।
दक्षिणा शरभं स्कन्दं महानारायणाह्वयम् ॥३४॥ / dakṣiṇā śarabhaṃ skandaṃ mahānārāyaṇāhvayam ॥34॥
रहस्यं रामतपनं वासुदेवं च मुद्गलम् । / rahasyaṃ rāmatapanaṃ vāsudevaṃ ca mudgalam ।
शाण्डिल्यं पैङ्गलं भिक्षुमहच्छारीरकं शिखा ॥३५॥ / śāṇḍilyaṃ paiṅgalaṃ bhikṣumahacchārīrakaṃ śikhā ॥35॥
तुरीयातीतसंन्यासपरिव्राजाक्षमालिका । / turīyātītasaṃnyāsaparivrājākṣamālikā ।
अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका ॥३६॥ / avyaktaikākṣaraṃ pūrṇā sūryākṣyadhyātmakuṇḍikā ॥36॥
सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् । / sāvitryātmā pāśupataṃ paraṃ brahmāvadhūtakam ।
त्रिपुरातपनं देवीत्रिपुरा कठभावना । / tripurātapanaṃ devītripurā kaṭhabhāvanā ।
हृदयं कुण्डली भस्म रुद्राक्षगणदर्शनम् ॥३७॥ / hṛdayaṃ kuṇḍalī bhasma rudrākṣagaṇadarśanam ॥37॥
तारसारमहावाक्य पञ्चब्रह्माग्निहोत्रकम् । / tārasāramahāvākya pañcabrahmāgnihotrakam ।
गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् ॥३८॥ / gopālatapanaṃ kṛṣṇaṃ yājñavalkyaṃ varāhakam ॥38॥
शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् । / śāṭyāyanī hayagrīvaṃ dattātreyaṃ ca gāruḍam ।
कलिजाबालिसौभाग्यरहस्यऋचमुक्तिका ॥३९॥ / kalijābālisaubhāgyarahasyaṛcamuktikā ॥39॥
एवमष्टोत्तरशतं भावनात्रयनाशनम् । / evamaṣṭottaraśataṃ bhāvanātrayanāśanam ।
ज्ञानवैराग्यदं पुंसां वासनात्रयनाशनम् ॥४०॥ / jñānavairāgyadaṃ puṃsāṃ vāsanātrayanāśanam ॥40॥
पूर्वोत्तरेषु विहिततत्तच्छान्तिपुरःसरम् । / pūrvottareṣu vihitatattacchāntipuraḥsaram ।
वेदविद्याव्रतस्नातदेशिकस्य मुखात्स्वयम् ॥४१॥ / vedavidyāvratasnātadeśikasya mukhātsvayam ॥41॥
गृहीत्वाष्टोत्तरशतं ये पठन्ति द्विजोत्तमाः । / gṛhītvāṣṭottaraśataṃ ye paṭhanti dvijottamāḥ ।
प्रारब्धक्षयपर्यन्तं जीवन्मुक्ता भवन्ति ते ॥४२॥ / prārabdhakṣayaparyantaṃ jīvanmuktā bhavanti te ॥42॥
ततः कालवशादेव प्रारब्धे तु क्षयं गते । / tataḥ kālavaśādeva prārabdhe tu kṣayaṃ gate ।
वैदेहीं मामकीं मुक्तिं यान्ति नास्त्यत्रसंशयः ॥४३॥ / vaidehīṃ māmakīṃ muktiṃ yānti nāstyatrasaṃśayaḥ ॥43॥
सर्वोपनिषदां मध्ये सारमष्टोत्तरशतम् । / sarvopaniṣadāṃ madhye sāramaṣṭottaraśatam ।
सकृच्छ्रवणमात्रेण सर्वाघौघनिकृन्तनम् ॥४४॥ / sakṛcchravaṇamātreṇa sarvāghaughanikṛntanam ॥44॥
मयोपदिष्टं शिष्याय तुभ्यं पवननन्दन । / mayopadiṣṭaṃ śiṣyāya tubhyaṃ pavananandana ।
इदं शास्त्रं मयादिष्टं गुह्यमष्टोत्तरं शतम् ॥४५॥ / idaṃ śāstraṃ mayādiṣṭaṃ guhyamaṣṭottaraṃ śatam ॥45॥
ज्ञानतोऽज्ञानतो वापि पठतां बन्धमोचकम् । / jñānato'jñānato vāpi paṭhatāṃ bandhamocakam ।
राज्यं देयं धनं देयं याचतः कामपूरणम् ॥४५॥ / rājyaṃ deyaṃ dhanaṃ deyaṃ yācataḥ kāmapūraṇam ॥45॥
इदमष्टोत्तरशतं न देयं यस्य कस्यचित् । / idamaṣṭottaraśataṃ na deyaṃ yasya kasyacit ।
नास्तिकाय कृतघ्नाय दुराचाररताय वै ॥४७॥ / nāstikāya kṛtaghnāya durācāraratāya vai ॥47॥
मद्भक्तिविमुखायापि शास्त्रगर्तेषु मुह्यते । / madbhaktivimukhāyāpi śāstragarteṣu muhyate ।
गुरुभक्तिविहीनाय दातव्यं न कदाचन ॥४८॥ / gurubhaktivihīnāya dātavyaṃ na kadācana ॥48॥
सेवापराय शिष्याय हितपुत्राय मारुते । / sevāparāya śiṣyāya hitaputrāya mārute ।
मद्भक्ताय सुशीलाय कुलीनाय सुमेधसे ॥४९॥ / madbhaktāya suśīlāya kulīnāya sumedhase ॥49॥
सम्यक् परीक्ष्य दातव्यमेवमष्टोत्तरं शतम् । / samyak parīkṣya dātavyamevamaṣṭottaraṃ śatam ।
यः पठेच्छृणुयाद्वापि स मामेति न संशयः । / yaḥ paṭhecchṛṇuyādvāpi sa māmeti na saṃśayaḥ ।
तदेतदृचाभ्युक्तम् । / tadetadṛcābhyuktam ।
विद्या ह वै ब्राह्मणमाजगाम / vidyā ha vai brāhmaṇamājagāma
गोपाय मा शेवधिष्टीऽहमस्मि । / gopāya mā śevadhiṣṭī'hamasmi ।
असूयकायानृजवे शठाय / asūyakāyānṛjave śaṭhāya
मा मा ब्रूया वीर्यवती तथा स्याम् । / mā mā brūyā vīryavatī tathā syām ।
यमेव विद्याश्रुतमप्रमत्तं / yameva vidyāśrutamapramattaṃ
मेधाविनं ब्रह्मचर्योपपन्नम् । / medhāvinaṃ brahmacaryopapannam ।
तस्मा इमामुपसन्नाय सम्यक् / tasmā imāmupasannāya samyak
परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥१॥इति ॥ / parīkṣya dadyādvaiṣṇavīmātmaniṣṭhām ॥1॥iti ॥
अथ हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ / atha hainaṃ śrīrāmacandraṃ mārutiḥ papraccha
ऋग्वेदादिविभागेन पृथक् शान्तिमनुब्रूहीति । / ṛgvedādivibhāgena pṛthak śāntimanubrūhīti ।
स होवाच श्रीरामः । / sa hovāca śrīrāmaḥ ।
ऐतरेयकौषीतकीनादबिन्द्वात्मप्रबोधनिर्वाण- / aitareyakauṣītakīnādabindvātmaprabodhanirvāṇa-
मुद्गलाक्षमालिकात्रिपुरासौभाग्यबह्वृचा / mudgalākṣamālikātripurāsaubhāgyabahvṛcā
नामृग्वेदगतानां दशसंख्याकानामुपनिषदां / nāmṛgvedagatānāṃ daśasaṃkhyākānāmupaniṣadāṃ
वाङ्मे मनसीति शान्तिः ॥१॥ / vāṅme manasīti śāntiḥ ॥1॥
ईशावास्यबृहदारण्यजाबालहंसपरमहंससुबाल- / īśāvāsyabṛhadāraṇyajābālahaṃsaparamahaṃsasubāla-
मन्त्रिकानिरालम्बत्रिशिखीब्राह्मणमण्डलब्राह्मणाद्वयतारक- / mantrikānirālambatriśikhībrāhmaṇamaṇḍalabrāhmaṇādvayatāraka-
पैङ्गलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्य- / paiṅgalabhikṣuturīyātītādhyātmatārasārayājñavalkya-
शाट्यायनीमुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशति- / śāṭyāyanīmuktikānāṃ śuklayajurvedagatānāmekonaviṃśati-
संख्याकानामुपनिषदां पूर्णमद इति शान्तिः ॥२॥ / saṃkhyākānāmupaniṣadāṃ pūrṇamada iti śāntiḥ ॥2॥
कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भ- / kaṭhavallītaittirīyakabrahmakaivalyaśvetāśvataragarbha-
नारायणामृतबिन्द्वमृतनादकालाग्निरुद्रक्षुरिका- / nārāyaṇāmṛtabindvamṛtanādakālāgnirudrakṣurikā-
सर्वसारशुकरहस्यतेजोबिन्दुध्यानबिन्दुब्रह्मविद्या- / sarvasāraśukarahasyatejobindudhyānabindubrahmavidyā-
योगतत्त्वदक्षिणामूर्तिस्कन्दशारीरकयोगशिखैकाक्षर- / yogatattvadakṣiṇāmūrtiskandaśārīrakayogaśikhaikākṣara-
अक्ष्यवधूतकठरुद्रहृदययोगकुण्डलिनीपञ्चब्रह्म- / akṣyavadhūtakaṭharudrahṛdayayogakuṇḍalinīpañcabrahma-
प्राणाग्निहोत्रवराहकलिसन्तरणसरस्वतीरहस्यानां / prāṇāgnihotravarāhakalisantaraṇasarasvatīrahasyānāṃ
कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानमुपनिषदां / kṛṣṇayajurvedagatānāṃ dvātriṃśatsaṃkhyākānamupaniṣadāṃ
सह नाववत्विति शान्तिः ॥३॥ / saha nāvavatviti śāntiḥ ॥3॥
केनछान्दोग्यारुणिमैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणि- / kenachāndogyāruṇimaitrāyaṇimaitreyīvajrasūcikāyogacūḍāmaṇi-
वासुदेवमहत्संन्यासाव्यक्तकुण्डिकासावित्रीरुद्राक्षजाबालदर्शन- / vāsudevamahatsaṃnyāsāvyaktakuṇḍikāsāvitrīrudrākṣajābāladarśana-
जाबालीनां सामवेदगतानां षोडशसंख्याकाना- / jābālīnāṃ sāmavedagatānāṃ ṣoḍaśasaṃkhyākānā-
मुपनिषदानामाप्यायन्त्विति शान्तिः ॥४॥ / mupaniṣadānāmāpyāyantviti śāntiḥ ॥4॥
प्रश्नमुण्डकमाण्डुक्याथर्वशिरोऽथर्वशिखाबृहज्जाबाल- / praśnamuṇḍakamāṇḍukyātharvaśiro'tharvaśikhābṛhajjābāla-
नृसिंहतापनीनारदपरिव्राजकसीताशरभमहानारायण- / nṛsiṃhatāpanīnāradaparivrājakasītāśarabhamahānārāyaṇa-
रामरहस्यरामतापनीशाण्डिल्यपरमहंसपरिव्राजक- / rāmarahasyarāmatāpanīśāṇḍilyaparamahaṃsaparivrājaka-
अन्नपूर्णासूर्यात्मपाशुपतपरब्रह्मत्रिपुरातपनदेवीभावना- / annapūrṇāsūryātmapāśupataparabrahmatripurātapanadevībhāvanā-
ब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णहयग्रीव- / brahmajābālagaṇapatimahāvākyagopālatapanakṛṣṇahayagrīva-
दत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकाना- / dattātreyagāruḍānāmatharvavedagatānāmekatriṃśatsaṃkhyākānā-
मुपनिषदां भद्रं कर्णेभिरिति शान्तिः ॥५॥ / mupaniṣadāṃ bhadraṃ karṇebhiriti śāntiḥ ॥5॥
मुमुक्षवः पुरुषाः साधनचतुष्टयसम्पन्नाः / mumukṣavaḥ puruṣāḥ sādhanacatuṣṭayasampannāḥ
श्रद्धावन्तः सुकुलभवं श्रोत्रियं शास्त्रवात्सल्य- / śraddhāvantaḥ sukulabhavaṃ śrotriyaṃ śāstravātsalya-
गुणवन्तमकुटिलं सर्वभूतहितेरतं दयासमुद्रं सद्गुरुं / guṇavantamakuṭilaṃ sarvabhūtahiterataṃ dayāsamudraṃ sadguruṃ
विधिवदुपसंगम्योपहारपाणयोऽष्टोत्तरशतोपनिषदं / vidhivadupasaṃgamyopahārapāṇayo'ṣṭottaraśatopaniṣadaṃ
विधिवदधीत्य श्रवणमनननिदिध्यासनानि नैरन्तर्येण कृत्वा / vidhivadadhītya śravaṇamanananididhyāsanāni nairantaryeṇa kṛtvā
प्रारब्धक्षयाद्देहत्रयभंगं प्राप्योपाधिविनिर्मुक्त- / prārabdhakṣayāddehatrayabhaṃgaṃ prāpyopādhivinirmukta-
घटाकाशवत्परिपूर्णता विदेहमुक्तिः । सैव कैवल्यमुक्तिरिति । / ghaṭākāśavatparipūrṇatā videhamuktiḥ । saiva kaivalyamuktiriti ।
अत एव ब्रह्मलोकस्था अपि ब्रह्ममुखाद्वेदान्तश्रवणादि कृत्वा / ata eva brahmalokasthā api brahmamukhādvedāntaśravaṇādi kṛtvā
तेन सह कैवल्यं लभन्ते । अतः सर्वेषां कैवल्यमुक्तिर्ज्ञानमात्रेणोक्ता । / tena saha kaivalyaṃ labhante । ataḥ sarveṣāṃ kaivalyamuktirjñānamātreṇoktā ।
न कर्मसांख्ययोगोपासनादिभिरित्युपनिषत् ॥ / na karmasāṃkhyayogopāsanādibhirityupaniṣat ॥
इति प्रथमोऽध्यायः ॥१॥ / iti prathamo'dhyāyaḥ ॥1॥
तथा हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ । / tathā hainaṃ śrīrāmacandraṃ mārutiḥ papraccha ।
केयं वा तत्सिद्धिः सिद्ध्या वा किं प्रयोजनमिति । / keyaṃ vā tatsiddhiḥ siddhyā vā kiṃ prayojanamiti ।
सहोवाच श्रीरामः । पुरुषस्य कर्तृत्वभोक्तृत्व- / sahovāca śrīrāmaḥ । puruṣasya kartṛtvabhoktṛtva-
सुखदुःखादिलक्षणश्चित्तधर्मः क्लेशरूपत्वाद्बन्धो / sukhaduḥkhādilakṣaṇaścittadharmaḥ kleśarūpatvādbandho
भवति । तन्निरोधनं जीवन्मुक्तिः । उपाधिविनिर्मुक्त- / bhavati । tannirodhanaṃ jīvanmuktiḥ । upādhivinirmukta-
घटाकाशवत्प्रारब्धक्षयाद्विदेहमुक्तिः । / ghaṭākāśavatprārabdhakṣayādvidehamuktiḥ ।
जीवन्मुक्तिविदेहमुक्त्योरष्टोत्तरशतोपनिषदः प्रमाणम् । / jīvanmuktividehamuktyoraṣṭottaraśatopaniṣadaḥ pramāṇam ।
कर्तृत्वादिदुःखनिवृत्तिद्वारा नित्यानन्दावाप्तिः प्रयोजनं / kartṛtvādiduḥkhanivṛttidvārā nityānandāvāptiḥ prayojanaṃ
भवति । तत्पुरुषप्रयत्नसाध्यं भवति । यथा पुत्रकामेष्टिना / bhavati । tatpuruṣaprayatnasādhyaṃ bhavati । yathā putrakāmeṣṭinā
पुत्रं वाणिज्यादिना वित्तं ज्योतिष्टोमेन स्वर्गं तथा / putraṃ vāṇijyādinā vittaṃ jyotiṣṭomena svargaṃ tathā
पुरुषप्रयत्नसाध्यवेदान्तश्रवणादिजनितसमाधिना / puruṣaprayatnasādhyavedāntaśravaṇādijanitasamādhinā
जीवन्मुक्त्यादिलाभो भवति । सर्ववासनाक्षयात्तल्लाभः । / jīvanmuktyādilābho bhavati । sarvavāsanākṣayāttallābhaḥ ।
अत्र श्लोका भवन्ति ॥ / atra ślokā bhavanti ॥
उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं मतम् । / ucchāstraṃ śāstritaṃ ceti pauruṣaṃ dvividhaṃ matam ।
अत्रोच्छस्त्रमनर्थाय परमार्थाय शास्त्रितम् ॥१॥ / atrocchastramanarthāya paramārthāya śāstritam ॥1॥
लोकवासनया जन्तोः शास्त्रवासनयापि च । / lokavāsanayā jantoḥ śāstravāsanayāpi ca ।
देहवासनया ज्ञानं यथावन्नैव जायते ॥२॥ / dehavāsanayā jñānaṃ yathāvannaiva jāyate ॥2॥
द्विविधा वासनाव्यूहः शुभश्चैवाशुभश्च तौ । / dvividhā vāsanāvyūhaḥ śubhaścaivāśubhaśca tau ।
वासनौघेन शुद्धेन तत्र चेदनुनीयसे ॥३॥ / vāsanaughena śuddhena tatra cedanunīyase ॥3॥
तत्क्रमेणाशु तेनैव मामकं पदमाप्नुहि । / tatkrameṇāśu tenaiva māmakaṃ padamāpnuhi ।
अथ चेदशुभो भावस्त्वां योजयति संकटे ॥४॥ / atha cedaśubho bhāvastvāṃ yojayati saṃkaṭe ॥4॥
प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता कपे । / prāktanastadasau yatnājjetavyo bhavatā kape ।
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ॥५॥ / śubhāśubhābhyāṃ mārgābhyāṃ vahantī vāsanāsarit ॥5॥
पौरुषेण प्रयत्नेन योजनीया शुभे पथि । / pauruṣeṇa prayatnena yojanīyā śubhe pathi ।
अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् ॥६॥ / aśubheṣu samāviṣṭaṃ śubheṣvevāvatārayet ॥6॥
अशुभाच्चालितं याति शुभं तस्मादपीतरत् । / aśubhāccālitaṃ yāti śubhaṃ tasmādapītarat ।
पौरुषेण प्रयत्नेन लालयेच्चित्तबालकम् ॥७॥ / pauruṣeṇa prayatnena lālayeccittabālakam ॥7॥
द्रागभ्यासवशाद्याति यदा ते वासनोदयम् । / drāgabhyāsavaśādyāti yadā te vāsanodayam ।
तदाभ्यासस्य साफल्यं विद्धि त्वममरिमर्दन ॥८॥ / tadābhyāsasya sāphalyaṃ viddhi tvamamarimardana ॥8॥
सन्दिग्धायामपि भृशं शुभामेव समाचर । / sandigdhāyāmapi bhṛśaṃ śubhāmeva samācara ।
शुभायां वासनावृद्धौ न दोषाय मरुत्सुत ॥९॥ / śubhāyāṃ vāsanāvṛddhau na doṣāya marutsuta ॥9॥
वासनाक्षयविज्ञानमनोनाशा महामते । / vāsanākṣayavijñānamanonāśā mahāmate ।
समकालं चिराभ्यस्ता भवन्ति फलदा मताः ॥१०॥ / samakālaṃ cirābhyastā bhavanti phaladā matāḥ ॥10॥
त्रय एवं समं यावन्नाभ्यस्ताश्च पुनः पुनः । / traya evaṃ samaṃ yāvannābhyastāśca punaḥ punaḥ ।
तावन्न पदसम्प्राप्तिर्भवत्यपि समाशतैः ॥११॥ / tāvanna padasamprāptirbhavatyapi samāśataiḥ ॥11॥
एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् । / ekaikaśo niṣevyante yadyete ciramapyalam ।
तन्न सिद्धिं प्रयच्छन्ति मन्त्राः संकीर्तिता इव ॥१२॥ / tanna siddhiṃ prayacchanti mantrāḥ saṃkīrtitā iva ॥12॥
त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः । / tribhiretaiścirābhyastairhṛdayagranthayo dṛḍhāḥ ।
निःशङ्कमेव त्रुठ्यन्ति बिसच्छेदाद्गुणा इव ॥१३॥ / niḥśaṅkameva truṭhyanti bisacchedādguṇā iva ॥13॥
जन्मान्तशताभ्यस्ता मिथ्या संसारवासना । / janmāntaśatābhyastā mithyā saṃsāravāsanā ।
सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् ॥१४॥ / sā cirābhyāsayogena vinā na kṣīyate kvacit ॥14॥
तस्मात्सौम्य प्रयत्नेन पौरुषेण विवेकिना । / tasmātsaumya prayatnena pauruṣeṇa vivekinā ।
भोगेच्छां दूरतस्त्यक्त्वा त्रयमेव समाश्रय ॥१५॥ / bhogecchāṃ dūratastyaktvā trayameva samāśraya ॥15॥
तस्माद्वासनया युक्तं मनो बद्धं विदुर्बुधाः । / tasmādvāsanayā yuktaṃ mano baddhaṃ vidurbudhāḥ ।
सम्यग्वासनया त्यक्तं मुक्तमित्यभिधीयते । / samyagvāsanayā tyaktaṃ muktamityabhidhīyate ।
मनोनिर्वासनीभावमाचराशु महाकपे ॥१६॥ / manonirvāsanībhāvamācarāśu mahākape ॥16॥
सम्यगालोचनात्सत्याद्वासना प्रविलीयते । / samyagālocanātsatyādvāsanā pravilīyate ।
वासनाविलये चेतः शममायाति दीपवत् ॥१७॥ / vāsanāvilaye cetaḥ śamamāyāti dīpavat ॥17॥
वासनां सम्परित्यज्य मयि चिन्मात्र विग्रहे । / vāsanāṃ samparityajya mayi cinmātra vigrahe ।
यस्तिष्ठति गतो व्यग्रः सोऽहं सच्चित्सुखात्मकः ॥१८॥ / yastiṣṭhati gato vyagraḥ so'haṃ saccitsukhātmakaḥ ॥18॥
समाधिमथ कार्याणि मा करोतु करोतु वा । / samādhimatha kāryāṇi mā karotu karotu vā ।
हृदयेनात्तसर्वेहो मुक्त एवोत्तमाशयः ॥१९॥ / hṛdayenāttasarveho mukta evottamāśayaḥ ॥19॥
/
नैष्कर्म्येण न तस्यार्थस्तस्यार्थोऽस्ति न कर्मभिः । / naiṣkarmyeṇa na tasyārthastasyārtho'sti na karmabhiḥ ।
न ससाधनजाप्याभ्यां यस्य निर्वासनं मनः ॥२०॥ / na sasādhanajāpyābhyāṃ yasya nirvāsanaṃ manaḥ ॥20॥
संत्यक्तवासनान्मौनादृते नास्त्युत्तमं पदम् ॥२१॥ / saṃtyaktavāsanānmaunādṛte nāstyuttamaṃ padam ॥21॥
वासनाहीनमप्येतच्चक्षुरादीन्द्रियं स्वतः । / vāsanāhīnamapyetaccakṣurādīndriyaṃ svataḥ ।
प्रवर्तते बहिः स्वाऽर्थे वासनामात्रकारणम् ॥२२॥ / pravartate bahiḥ svā'rthe vāsanāmātrakāraṇam ॥22॥
अयत्नोपनतेष्वक्षि दृग्द्रव्येषु यथा पुनः । / ayatnopanateṣvakṣi dṛgdravyeṣu yathā punaḥ ।
नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥२३॥ / nīrāgameva patati tadvatkāryeṣu dhīradhīḥ ॥23॥
भावसंवित्प्रकटितामनुरूपा च मारुते । / bhāvasaṃvitprakaṭitāmanurūpā ca mārute ।
चित्तस्योत्पत्युपरमा वासनां मुनयो विदुः ॥२४॥ / cittasyotpatyuparamā vāsanāṃ munayo viduḥ ॥24॥
दृढाभ्यस्तपदार्थैकभावनादतिचञ्चलम् । / dṛḍhābhyastapadārthaikabhāvanādaticañcalam ।
चित्तं संजायते जन्मजरामरणकारणम् ॥२५॥ / cittaṃ saṃjāyate janmajarāmaraṇakāraṇam ॥25॥
वासनावशतः प्राणस्पन्दस्तेन च वासना । / vāsanāvaśataḥ prāṇaspandastena ca vāsanā ।
क्रियते चित्तबीजस्य तेन बीजाङ्कुरक्रमः ॥२६॥ / kriyate cittabījasya tena bījāṅkurakramaḥ ॥26॥
द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने । / dve bīje cittavṛkṣasya prāṇaspandanavāsane ।
एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥२७॥ / ekasmiṃśca tayoḥ kṣīṇe kṣipraṃ dve api naśyataḥ ॥27॥
असङ्गव्यवहारत्वाद्भवभावनवर्जनात् । / asaṅgavyavahāratvādbhavabhāvanavarjanāt ।
शरीरनाशदर्शित्वाद्वासना न प्रवर्तते । / śarīranāśadarśitvādvāsanā na pravartate ।
वासनासम्परित्यागाच्चितं गच्छत्यचित्तताम् ॥२८॥ / vāsanāsamparityāgāccitaṃ gacchatyacittatām ॥28॥
अवासनत्वात्सततं यदा न मनुते मनः । / avāsanatvātsatataṃ yadā na manute manaḥ ।
अमनस्ता तदोदेति परमोपशमप्रदा ॥२९॥ / amanastā tadodeti paramopaśamapradā ॥29॥
अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः । / avyutpannamanā yāvadbhavānajñātatatpadaḥ ।
गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर ॥३०॥ / guruśāstrapramāṇaistu nirṇītaṃ tāvadācara ॥30॥
ततः पक्वकषायेण नूनं विज्ञात वस्तुना । / tataḥ pakvakaṣāyeṇa nūnaṃ vijñāta vastunā ।
शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निराधिना ॥३१॥ / śubho'pyasau tvayā tyājyo vāsanaugho nirādhinā ॥31॥
द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च । / dvividhacittanāśo'sti sarūpo'rūpa eva ca ।
जीवन्मुक्तः सरूपः स्यादरूपो देहमुक्तिगः ॥३२॥ / jīvanmuktaḥ sarūpaḥ syādarūpo dehamuktigaḥ ॥32॥
अस्य नाशमिदानीं त्वं पावने श्रुणु सादरम् ॥३३। / asya nāśamidānīṃ tvaṃ pāvane śruṇu sādaram ॥33।
चित्तानाशाभिधानं हि यदा ते विद्यते पुनः । / cittānāśābhidhānaṃ hi yadā te vidyate punaḥ ।
मैत्र्यादिभिर्गुणैर्युक्तं शान्तिमेति न संशयः । / maitryādibhirguṇairyuktaṃ śāntimeti na saṃśayaḥ ।
भूयोजन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः ॥३४॥ / bhūyojanmavinirmuktaṃ jīvanmuktasya tanmanaḥ ॥34॥
सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते । / sarūpo'sau manonāśo jīvanmuktasya vidyate ।
अरूपस्तु मनोनाशो वैदेही मुक्तिगो भवेत् ॥३५॥ / arūpastu manonāśo vaidehī muktigo bhavet ॥35॥
सहस्राङ्कुरशाखात्मफलपल्लवशालिनः ॥३६॥ / sahasrāṅkuraśākhātmaphalapallavaśālinaḥ ॥36॥
अस्य संसारवृक्षस्य मनोमूलमिदं स्थितम् । / asya saṃsāravṛkṣasya manomūlamidaṃ sthitam ।
संकल्प एव तन्मन्ये संकल्पोपशमेन तत् ॥३७॥ / saṃkalpa eva tanmanye saṃkalpopaśamena tat ॥37॥
शोषयाशु यथा शोषमेति संसारपादपः । / śoṣayāśu yathā śoṣameti saṃsārapādapaḥ ।
उपाय एक एवास्ति मनसः स्वस्य निग्रहे ॥३८॥ / upāya eka evāsti manasaḥ svasya nigrahe ॥38॥
मनसोऽभ्युदयो नाशो मनोनाशो महोदयः । / manaso'bhyudayo nāśo manonāśo mahodayaḥ ।
ज्ञमनो नाशमभ्येति मनो ज्ञस्य हि शृङ्खला ॥३९॥ / jñamano nāśamabhyeti mano jñasya hi śaṛṅkhalā ॥39॥
तावन्निशीव वेताला वल्गन्ति हृदि वासनाः । / tāvanniśīva vetālā valganti hṛdi vāsanāḥ ।
एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ॥४०॥ / ekatattvadṛḍhābhyāsādyāvanna vijitaṃ manaḥ ॥40॥
प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः । / prakṣīṇacittadarpasya nigṛhītendriyadviṣaḥ ।
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ॥४१॥ / padminya iva hemante kṣīyante bhogavāsanāḥ ॥41॥
हस्तं हस्तेन सम्पीड्य दन्तैर्दन्तान्विचूर्ण्य च । / hastaṃ hastena sampīḍya dantairdantānvicūrṇya ca ।
अङ्गान्यङ्गैः समाक्रम्य जयेदादौ स्वकं मनः ॥४२॥ / aṅgānyaṅgaiḥ samākramya jayedādau svakaṃ manaḥ ॥42॥
उपविश्योपविश्यैकां चिन्तकेन मुहुर्मुहुः । / upaviśyopaviśyaikāṃ cintakena muhurmuhuḥ ।
न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् ॥४३॥ / na śakyate mano jetuṃ vinā yuktimaninditām ॥43॥
अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः । / aṅkuśena vinā matto yathā duṣṭamataṅgajaḥ ।
अध्यात्मविद्याधिगमः साधुसंगतिरेव च ॥४४॥ / adhyātmavidyādhigamaḥ sādhusaṃgatireva ca ॥44॥
वासनासम्परित्यागः प्राणस्पन्दनिरोधनम् । / vāsanāsamparityāgaḥ prāṇaspandanirodhanam ।
एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल ॥४५॥ / etāstā yuktayaḥ puṣṭāḥ santi cittajaye kila ॥45॥
सतीषु युक्तिष्वेतासु हठान्नियमन्ति ये । / satīṣu yuktiṣvetāsu haṭhānniyamanti ye ।
चेतसो दीपमुत्सृज्य विचिन्वन्ति तमोऽञ्जनैः ॥४६॥ / cetaso dīpamutsṛjya vicinvanti tamo'ñjanaiḥ ॥46॥
विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम् । / vimūḍhāḥ kartumudyuktā ye haṭhāccetaso jayam ।
ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः ॥४७॥ / te nibadhnanti nāgendramunmattaṃ bisatantubhiḥ ॥47॥
द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारणः । / dve bīje cittavṛkṣasya vṛttivratatidhāraṇaḥ ।
एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना ॥४८॥ / ekaṃ prāṇaparispando dvitīyaṃ dṛḍhabhāvanā ॥48॥
सा हि सर्वगता संवित्प्राणास्पन्देन चाल्यते । / sā hi sarvagatā saṃvitprāṇāspandena cālyate ।
चित्तैकाग्र्याद्यतो ज्ञानमुक्तं समुपजायते ॥४९॥ / cittaikāgryādyato jñānamuktaṃ samupajāyate ॥49॥
तत्साधनमथो ध्यानं यथावदुपदिश्यते । / tatsādhanamatho dhyānaṃ yathāvadupadiśyate ।
विनाप्यविकृतिं कृत्स्नां संभवव्यत्ययक्रमात् । / vināpyavikṛtiṃ kṛtsnāṃ saṃbhavavyatyayakramāt ।
यशोऽरिष्टं च चिन्मात्रं चिदानन्दं विचिन्तय ॥५०॥ / yaśo'riṣṭaṃ ca cinmātraṃ cidānandaṃ vicintaya ॥50॥
अपानेऽस्तंगते प्राणो यावन्नाभ्युदितो हृदि । / apāne'staṃgate prāṇo yāvannābhyudito hṛdi ।
तावत्सा कुंभकावस्था योगिभिर्यानुभूयते ॥५१॥ / tāvatsā kuṃbhakāvasthā yogibhiryānubhūyate ॥51॥
बहिरस्तंगते प्राणे यावन्नापान उद्गतः । / bahirastaṃgate prāṇe yāvannāpāna udgataḥ ।
तावत्पूर्णां समावस्थां बहिष्ठं कुम्भकं विदुः ॥५२॥ / tāvatpūrṇāṃ samāvasthāṃ bahiṣṭhaṃ kumbhakaṃ viduḥ ॥52॥
ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृतं विना । / brahmākāramanovṛttipravāho'haṃkṛtaṃ vinā ।
सम्प्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः ॥५३॥ / samprajñātasamādhiḥ syāddhyānābhyāsaprakarṣataḥ ॥53॥
प्रशान्तवृत्तिकं चित्तं परमानन्ददायकम् । / praśāntavṛttikaṃ cittaṃ paramānandadāyakam ।
असम्प्रज्ञातनामायं समाधिर्योगिनां प्रियः ॥५४॥ / asamprajñātanāmāyaṃ samādhiryogināṃ priyaḥ ॥54॥
प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकम् । / prabhāśūnyaṃ manaḥśūnyaṃ buddhiśūnyaṃ cidātmakam ।
अतद्व्यावृत्तिरूपोऽसौ समाधिर्मुनिभावितः ॥५५॥ / atadvyāvṛttirūpo'sau samādhirmunibhāvitaḥ ॥55॥
ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं शिवात्मकम् । / ūrdhvapūrṇamadhaḥpūrṇaṃ madhyapūrṇaṃ śivātmakam ।
साक्षाद्विधिमुखो ह्येष समाधिः पारमार्थिकः ॥५६॥ / sākṣādvidhimukho hyeṣa samādhiḥ pāramārthikaḥ ॥56॥
दृढभावनया त्यक्तपूर्वापरविचारणम् । / dṛḍhabhāvanayā tyaktapūrvāparavicāraṇam ।
यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥५७॥ / yadādānaṃ padārthasya vāsanā sā prakīrtitā ॥57॥
भावितं तीव्रसंवेगादात्मना यत्तदेव सः । / bhāvitaṃ tīvrasaṃvegādātmanā yattadeva saḥ ।
भवत्याशु कपिश्रेष्ठ विगतेतरवासनः ॥५८॥ / bhavatyāśu kapiśreṣṭha vigatetaravāsanaḥ ॥58॥
तादृग्रूपो हि पुरुषो वासनाविवशीकृतः । / tādṛgrūpo hi puruṣo vāsanāvivaśīkṛtaḥ ।
सम्पश्यति यदैवैतत्सद्वस्त्विति विमुह्यति ॥५९॥ / sampaśyati yadaivaitatsadvastviti vimuhyati ॥59॥
वासनावेगवैचित्र्यात्स्वरूपं न जहाति तत् । / vāsanāvegavaicitryātsvarūpaṃ na jahāti tat ।
भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव ॥६०॥ / bhrāntaṃ paśyati durdṛṣṭiḥ sarvaṃ madavaśādiva ॥60॥
वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा । / vāsanā dvividhā proktā śuddhā ca malinā tathā ।
मलिना जन्महेतुः स्याच्छुद्धा जन्मविनाशिनी ॥६१॥ / malinā janmahetuḥ syācchuddhā janmavināśinī ॥61॥
अज्ञानसुघनाकारा घनाहंकारशालिनी । / ajñānasughanākārā ghanāhaṃkāraśālinī ।
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः । / punarjanmakarī proktā malinā vāsanā budhaiḥ ।
पुनर्जन्माङ्कुरं त्यक्त्वा स्थितिः संभृष्टबीजवत् ॥६२॥ / punarjanmāṅkuraṃ tyaktvā sthitiḥ saṃbhṛṣṭabījavat ॥62॥
बहुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । / bahuśāstrakathākanthāromanthena vṛthaiva kim ।
अन्वेष्टव्यं प्रयत्नेन मारुते ज्योतिरान्तरम् ॥६३॥ / anveṣṭavyaṃ prayatnena mārute jyotirāntaram ॥63॥
दर्शनादर्शने हित्वा स्वयं केवलरूपतः । / darśanādarśane hitvā svayaṃ kevalarūpataḥ ।
य आस्ते कपिशार्दूल ब्रह्म स ब्रह्मवित्स्वयम् ॥६४॥ / ya āste kapiśārdūla brahma sa brahmavitsvayam ॥64॥
अधीत्य चतुरो वेदान्सर्वशास्त्राण्यनेकशः । / adhītya caturo vedānsarvaśāstrāṇyanekaśaḥ ।
ब्रह्मतत्त्वं न जानाति दर्वी पाकरसं यथा ॥६५॥ / brahmatattvaṃ na jānāti darvī pākarasaṃ yathā ॥65॥
स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् । / svadehāśucigandhena na virajyeta yaḥ pumān ।
विरागकारणं तस्य किमन्यदुपदिश्यते ॥६६॥ / virāgakāraṇaṃ tasya kimanyadupadiśyate ॥66॥
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । / atyantamalino deho dehī cātyantanirmalaḥ ।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥६७॥ / ubhayorantaraṃ jñātvā kasya śaucaṃ vidhīyate ॥67॥
बद्धो हि वासनाबद्धो मोक्षः स्याद्वासनाक्षयः । / baddho hi vāsanābaddho mokṣaḥ syādvāsanākṣayaḥ ।
वासनां सम्परित्यज्य मोक्षार्थित्वमपि त्यज ॥६८॥ / vāsanāṃ samparityajya mokṣārthitvamapi tyaja ॥68॥
मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः । / mānasīrvāsanāḥ pūrvaṃ tyaktvā viṣayavāsanāḥ ।
मैत्र्यादिवासनानाम्नीर्गृहाणामलवासनाः ॥६९॥ / maitryādivāsanānāmnīrgṛhāṇāmalavāsanāḥ ॥69॥
ता अप्यतः परित्यज्य ताभिर्व्यवहरन्नपि । / tā apyataḥ parityajya tābhirvyavaharannapi ।
अन्तःशान्तः समस्नेहो भव चिन्मात्रवासनः ॥७०॥ / antaḥśāntaḥ samasneho bhava cinmātravāsanaḥ ॥70॥
तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् । / tāmapyatha parityajya manobuddhisamanvitām ।
शेषस्थिरसमाधानो मयि त्वं भव मारुते ॥७१॥ / śeṣasthirasamādhāno mayi tvaṃ bhava mārute ॥71॥
अशब्दमस्पर्शमरूपमव्ययं / aśabdamasparśamarūpamavyayaṃ
तथाऽरसं नित्यमगन्धवच्च यत् । / tathā'rasaṃ nityamagandhavacca yat ।
अनामगोत्रं मम रूपमीदृशं / anāmagotraṃ mama rūpamīdṛśaṃ
भजस्व नित्यं पवनात्मजार्तिहन् ॥७२॥ / bhajasva nityaṃ pavanātmajārtihan ॥72॥
दृशिस्वरूपं गगनोपमं परं / dṛśisvarūpaṃ gaganopamaṃ paraṃ
सकृद्विभातं त्वजमेकमक्षरम् । / sakṛdvibhātaṃ tvajamekamakṣaram ।
अलेपकं सर्वगतं यदद्वयं / alepakaṃ sarvagataṃ yadadvayaṃ
तदेव चाहं सकलं विमुक्तॐ ॥७३॥ / tadeva cāhaṃ sakalaṃ vimuktaoṃ ॥73॥
दृशिस्तु शुद्धोऽहमविक्रियात्मको / dṛśistu śuddho'hamavikriyātmako
न मेऽस्ति कश्चिद्विषयः स्वभावतः । / na me'sti kaścidviṣayaḥ svabhāvataḥ ।
पुरस्तिरश्चोर्ध्वमधश्च सर्वतः / purastiraścordhvamadhaśca sarvataḥ
सुपूर्णभूमाहमितीह भावय ॥७४॥ / supūrṇabhūmāhamitīha bhāvaya ॥74॥
अजोऽमरश्चैव तथाजरोऽमृतः / ajo'maraścaiva tathājaro'mṛtaḥ
स्वयंप्रभः सर्वगतोऽहमव्ययः । / svayaṃprabhaḥ sarvagato'hamavyayaḥ ।
न कारणं कार्यमतीत्य निर्मलः / na kāraṇaṃ kāryamatītya nirmalaḥ
सदैव तृप्तोऽहमितीह भावय ॥७५॥ / sadaiva tṛpto'hamitīha bhāvaya ॥75॥
जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते । / jīvanmuktapadaṃ tyaktvā svadehe kālasātkṛte ।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥७६॥ / viśatyadehamuktatvaṃ pavano'spandatāmiva ॥76॥
तदेतदृचाभ्युक्तम् ॥ / tadetadṛcābhyuktam ॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ / tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ । divīva cakṣurātatam ॥
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ / tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate । viṣṇoryatparamaṃ padam ॥
ॐ सत्यमित्युपनिषत् । / oṃ satyamityupaniṣat ।

इति मुक्तिकोपनिषत्समाप्ता ॥ / iti muktikopaniṣatsamāptā ॥