Санкхья шастра - Комментарии и перевод

Санкхья является основополагающей наукой для философии Йоги.

Санкхья шастра текст

Санкхья Карика Шастра текст

Ниже представлены найденные тексты комментариев Гаудапады, Вачаспати Мишры и других авторов и современный перевод Майкла Нили:

Файлы загружены в виде PDF и доступны для скачивания с нашего сервера по ссылкам:

Скачать Санкхья шастра

  1. Санкхья Карика Шастра — комментарий Гаудапады
  2. Санкхья Карика Шастра — комментарий и перевод Вачаспати Мишры
  3. Санкхья Карика Шастра — комментарий и перевод Нараяны Тиртхи
  4. Санкхья Карика Шастра — комментарий и перевод Юкти Дипика:
    1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15
  5. Санкхья Карика Шастра — комментарий Парамартхи
  6. Санкхья Карика Шастра — перевод Майкла Нили


Комментарии Санкхьи Карики Шастры на санскрите

Два основных комментария, которых я не нашел на английском языке, — это «Джаямангала» Шанкары и «Матхары Вритти».
Эти комментарии вы можете прочитать на санскрите. Это одни из старейших комментариев «Самкхья Карики»:
  1. Санкхья Карика Шастра — комментарий Джаямангалы (санскрит)
  2. Санкхья Карика Шастра — комментарий Матхары Вритти (санскрит)

Санкхья Карика (saṃkhya karika)

ईश्वरकृष्णस्य सांख्यकारिका

साङ्ख्य कारिका — ईश्वरकृष्ण
दुःखत्रयाभिघाताज् जिज्ञासा तदप१घातके हेतौ ।
दृष्टे सापार्था चेन् नैकान्तात्यन्ततोऽभावात् ॥ १॥

1 अभि M, G(A, D, G); अव J, S
दृष्टवदानुश्रविकः स ह्यविशुद्धि१ क्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २॥

1 अविशुद्धः M
मूलप्रकृतिरविकृतिर्महदाद्याः१ प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ ३॥

1 आद्या V1, V2
दृष्टमनुमानमाप्तवचनं च१ सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४॥

1 आप्तं वचनं V (editor's emendation)
प्रतिविषयाध्यवसायो दृष्टं त्रि१विधमनुमानमाख्यातम्।
तल्लिङ्गलिङ्गि२पूर्वकमाप्तश्रुतिराप्तवचनं तु३ ॥ ५॥

1 द्वि V2 2 लिङ्गि-लिङ्ग K 3 च V2, V1, J
सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिर१नुमानात् ।
तस्मादपिचासिद्धं परोऽक्षमाप्तागमात् सिद्धं२ ॥ ६॥

1 प्रसिद्धिर् V2, V1, G(D), Y 2 साध्यम् Y, M
अतिदूरात् सामीप्यादिन्द्रियघातान् मनोऽनवस्थानात् ।
सौक्ष्म्याद् व्यवधानादभिभवात् समानाभिहारच्च ॥ ७॥

सौक्ष्म्यात् तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धिः १ ।
महदादि तच्च२ कार्यं प्रकृतिविरूपं सरूपं३ च ॥ ८॥

1 उपलब्धेः J, V, K 2 तच्च महदादि D
3 सरूपं विरूपं J, V; विरूपं स्वरूपं G (G)
असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ ९॥

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ १०॥

त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि ।
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ ११॥

प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्ति१नियमार्थाः ।
अन्योऽन्याभिभवाश्रय जननमिथुनवृत्तयश्च गुणाः ॥ १२॥

1 प्रवृत्तिर् K
सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं १,२ चलं च रजः ।
गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ १३॥

1 प्रकाशम् K 2उपस्तम्भकं D
अविवेक्यादि हि सिद्धं१ त्रैगुण्यात् तद्विपर्यया२भावात् ।
कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम् ॥ १४॥

1 [my emendation]; --आदि सिद्धः V1, V2; आदिः सिद्धः G, J, Y, M;
आदेः सिद्धिः V, D, S; आदिर्हि सिद्धं K 2 विपर्यये V
भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद् वैश्वरूपस्य१ १५॥

1 रूप्यस्य J, Y, M, V, K
कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च१ ।
परिणामतः२ सलिलवत् प्रतिप्रति३गुणाश्रय४विशेषात् ॥ १६॥

1 समुदयाश् K 2 परिमाण V2
3 प्रतिपत्ति V1 3 and 4 पॄथक् पॄथग् भाजन V2(comm)
सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं१ प्रवृत्तेश्च ॥ १७॥

1 र्थ V1, M, K
जनन१मरणकरणानां प्रतिनियमादयुगपत् प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्य२विपर्ययाच्चैव ॥ १८॥

1 जन्म V2, V1, G(B, D), M, V, K, D 2 त्रि-गुणादि V2, V1, Y
तस्माच्च विपर्यासात्१ सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च २,३ ॥ १९॥

1 विपर्ययात् V1 2 द्रष्टित्वम् V2; प्रष्ठित्वम् V1 3
भावाच् V2
तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुण१कर्तृत्वे च२ तथा कर्तेव भवत्यु३दासीनः४ ॥ २०॥

1 गुणाः V2 2.अपि J, M, V 3 भवतीत्य् G (note) 4
उदासीना V2
पुरुषस्य दर्शनार्थं कैवल्यार्थं१ तथा प्रधानस्य ।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २१॥

1 दर्शनार्थः कैवल्यार्थस् Y
प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च१ षोडशकः ।
तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ २२॥

1 तु V1
अध्यवसायो बुद्धिर्धर्मो ज्ञानं विरागाइश्वर्यम् ।
सात्त्विकमेतद्रूपं तामसमस्माद् विपर्यस्तम् ॥ २३॥

अभिमानोऽहङ्कारस्तस्माद् द्विविधः प्रवर्तते सर्गः ।
एकादशकश्च गणस्त१न्मात्रः२ पञ्चकश्चैव३ ॥ २४॥

1 ऐन्द्रियैकादशकः V1, G(B), Y, M
2 मात्र J, M, V, K, S; मात्रकः V1 3 पञ्चकञ् S
सात्त्विकैकादशकः प्रवर्तते वैकृतादहङ्कारात् ।
भूतादेस्तन्१मात्रः स तामसस्तैजसादुभयम् ॥ २५॥

1 तान् Y, M (var), V
बुद्धीन्द्रियाणि चक्षुः१ श्रोत्रघ्राणरसन२त्वगाख्यानि३ ।
वाक्पाणिपादपायूपस्थान्४ कर्मेन्द्रियान्याहुः ॥ २६॥

1 श्रोत्र V1, M; कर्ण Y, M (var)
2 + 3 त्वक् चक्षू रसन नासिकाख्यानि V1, Y, M
3 स्पर्शनानि V2; स्पर्शनकानि G 4 पस्थाः V2, Y;
पस्थं K
उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियं च साधर्म्यात् ।
गुणपरिणामविशेषान् नानात्वं बाह्य२भेदाच्च३,१ ॥ २७॥

1 in V2 and Y सङ्कल्पकमत्र मनः तच् चेन्द्रियमुभयथा
समाख्यातमन्तस्त्रिकाल विषयं तस्मादुभय प्रचारं तत्
V2, Y
2 ग्राह्य M 3 भेदाश् G(A, E, F), J, V, S, D
शब्दादिषु१ पञ्चानामालोचनमात्रमिष्यते वृत्तिः ।
वचनादानविहरणोत्सर्गानन्दाश्च२ पञ्चानाम् ॥ २८॥

1 रूपादिषु V2, V1, G(B, D) Y, V 2 -s tu V2, V1, M
स्वालक्षण्यं१ वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २९॥

1 लक्षण्या V1, M
युगपच्चतुष्टयस्य तु१ वृत्तिः क्रमशश्च तस्य निर्दिष्टा ।
दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ३०॥

1 हि M
स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां१ वृत्तिम् ।
पुरुषार्थैव हेतुर्न केनचित् कार्यते करणम् ॥ ३१॥

1 हैतुकी M K, J; हेतुकीं V1(comm); हेतुकी Y
करणं त्रयोदशविधं तदाहरण१धारणप्रकाशकरम् ।
कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च ॥ ३२॥

1 आग्रहण V1,
अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
साम्प्रतकालं बाह्यं त्रिकालमाभ्य१न्तरं करणम् ॥ ३३॥

1 अभ्य् V2, D
बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि१ ।
वाग्भवति शब्दविषया शेषाणि तु२ पञ्चविषयाणि१ ॥ ३४॥

1 विषयीणि V1, J 2 शेषाण्यपि V2, V1, Y, M
सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् ।
तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५॥

एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६॥

सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः ।
सैव च विशिनष्टि पुनः१ प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७॥

1 ततः M
तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः ।
एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च१ ॥ ३८॥

1 सन्तो शान्तो? घोरश्च मूढश्च V1
सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः ।
सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ ३९॥

पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं१ भावैरधि२वासितं लिङ्गम् ॥ ४०॥

1 निरूप-भोगं G 2 अति V2
चित्रं यथाश्रयमृते स्थाण्वा१दिभ्यो विना यथा२ छाया ।
तद्वद् विना विशेषैर्न तिष्ठति३ निराश्रयं लिङ्गम् ॥ ४१॥

1 तन्त्व् K 2 यथा विना G, D 3 स् तिष्ठति न M
पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्विभुत्वयोगान् नटवद् व्यवतिष्ठते१ लिङ्गम् ॥ ४२॥

1 व्यातिष्ठते T
सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः ।
दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥ ४३॥

धर्मेण गमनमूर्ध्वं गमनमधस्ताद् भवत्यधर्मेण ।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ ४४॥

वैराग्यात् प्रकृतिलयः संसारो भवति राजसाद्१ रागात् ।
ऐश्वर्यादविघातो विपर्ययात् तद्विपर्यासः ॥ ४५॥

1 राजसाद् भवति V1(comm), M
एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्य१विमर्दात्२ तस्य च३ भेदास्तु पञ्चाशत् ॥ ४६॥

1 वैशम्य K 2 विमर्शात् T, K; विमर्देन V2,
V1(comm), J, M; विमर्दे V1
3 missing V2, V1, J, M
पञ्च विपर्ययभेदा भवन्त्यशक्तेश्च१ करणवैकल्यात् ।
अष्टाविंशतिभेदास्तु२ष्टिर्नवधाष्टधा सिद्धिः ॥ ४७॥

1 अशक्तिश् V1, G (except for D), J, Y, V, K 2 भेदा V1,
J, Y, M, V, K
भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः ।
१तामिस्रोऽष्टा२दशधा तथा भवत्यन्धतामिस्रः१ ॥ ४८॥

1 तामिश्रो, अः D 2 ऽष्ट G;. ऽष्टो K
एकादशेन्द्रियवधाः१ सह बुद्धिवधैरशक्तिरुद्दिष्टा२ ।
सप्तदश वधा३ बुद्धेर्वि४पर्ययात्५ तुष्टिसिद्धीनाम् ॥ ४९॥

1 वधा G 2 उपदिष्टा J, K 3 सप्तदशधा G;.
च J, K; । तु D
४ बुद्धिः Y 5 विपर्ययाः J; विपर्यया K
आध्यात्मिकाश्चतस्रः१ प्रकृत्युपादानकालभाग्या२ख्याः ।
बाह्या विषयोपरमाच्च पञ्च३ नव४ तुष्टयोऽभिमताः ५ ॥ ५०॥

1 आध्यात्मिक्यश् G(E), Y, M; अध्यात्मिकाश् K 2 भाग
V1, G(F), D
3 रमात् पञ्च च Y, V, K; रमात् पञ्च J, M, B, S;
रमाश्च पञ्च V1, G(D); रमाः पञ्च D
4 नव च M 5 हिताः G(D, F), Y, M, D
ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः१ सुहृत्प्राप्तिः ।
दानं च सिद्धयोऽष्टौ२ सिद्धेः३ पूर्वोऽङ्कुशस्त्रिविधः ॥ ५१॥

1 विघात-त्रयं V1, M 2 सिद्ध-योगो K 3 सिद्धि V2;
सिद्धे V1
न विना भावैर्लिङ्गं न विना लिङ्गेन भाव१निर्वृत्तिः२ ।
लिङ्गाख्यो भावाख्यस्तस्माद् द्विविधाः प्रवर्तते३ सर्गः ॥ ५२॥

var लिङ्गाख्यो भावाख्यस्तस्माद् भवति द्विविधा सर्गः ॥ ५२॥

1 भावेन लिङ्ग V1
2 विनिवृत्तिः V1; संसिद्धिः Y, M(var.); निष्पत्तिः J, M(var)
3 भवति द्विधा M
अष्टविकल्पो दैवस्त१इर्यग्योनश्च२-३ पञ्चधा भवति ।
मानुष्य४श्चैक५विधः समासतो भौतिकः६ सर्गः ॥ ५३॥

G(D) [uses neuter in the first three half-lines:
अं instead of ओ, अस्, अश्, अश्
1 देवस् V1 2 तिर्यग्योनिश् V1; तैर्यग्योन्यश् J 3
[missing] G(D)
4 मानुशकश् V (var) 5 त्वेक G(D) 6ऽयं त्रिधा G(D)
ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च१ मूलतः सर्गः ।
मध्ये रजोविशालो ब्रह्मादि२ स्तम्बपर्यन्तः३ ॥ ५४॥

1 अस्तु V1, Y, M(var) 2 इः D 3 अं G (comm अः)
तत्र१ जरामरणकृतं२ दुःखं प्राप्नोति चेतनः पुरुषः ।
लिङ्गस्यावि३निवृत्तेस्तस्माद् दुःखं स्वभावेन४ ॥ ५५॥

1 अत्र V1, Y, M; अत्र जन्म Y(comm. to verse 1)
2 [missing] V2 3 पि V1 4 समासेन V1, Y, M
इत्येष प्रकृतिकृतो१ महदादिविशेष२भूतपर्यन्तः३ ।
प्रतिपुरुषविमोक्षार्थं स्वार्थैव परार्था४रम्भः ॥ ५६॥

1 कॄतौ G(D); कॄतः Y; विकॄइतः V1 2 विषय M
3 प्रवर्तते तत्त्व भूत भावाख्यः Y, M(var.);
प्रवर्तते वैकॄतः प्रजा सर्गः V1
4 र्थम् V1
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ५७॥

औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थं१ प्रवर्तते तद्वदव्यक्तम् ॥ ५८॥

1 पुरुष विमोक्ष निमित्तं V1
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते१ प्रकृतिः ॥ ५९॥

1 निवर्तते G
नानाविधैरुपायैरु१पकारिण्यनुपकारिणः पुंसः ।
गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति२ ॥ ६०॥

1 नाना विधोपकारैः D 2 कुरुते G(D)
प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१॥

तस्मान् न १बध्यतेऽद्धा न२ मुच्यते३ नापि संसरति कश्चित्४ ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६२॥

1 मुच्यते G©, D 2 ना पि G, M, K, D; न V1; [missing] V2
3 बध्यते G©, D; [missing] V2 4 पुरुषः B, D, S;
किञ्चित् V2
रूपैः सप्तभिरेव तु१ बध्नात्यात्मानमात्मना प्रकृतिः ।
सैव च पुरुषार्थं प्रति२ विमोचयत्येकरूपेण ॥ ६३॥

1 एवं V1, M; एव V2, G
2 पुरुषस्यार्थं प्रति M; पुरुषस्यार्थं V2, D
[This verse is missing in paramArtha's Chinese version (T)]
एवं तत्त्वाभ्यासान् नास्मि न मे नाहमित्यपरिशेषम् ।
अविपर्ययाद् विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४॥

तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम्१ ।
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः सुस्थः२ ॥ ६५॥

1 विनिवृत्तः V2, V1 2 स्व स्थः V2, V1, J, M, V;
स्वच्चः V(var), K
दृष्टा मयेत्यु१पेक्षकैको दृष्टाहमित्युपरतान्या३ ।
सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ ६६॥

1 रङ्ग-स्थ इति G(D) 2 उपेक्षत K
3 उपरतैका V2(?),V1, G(D); उपरमत्यन्या G(var),
J(var), V, K, S
सम्यग्ज्ञानाधिगमाद् धर्मादीनामकारणप्राप्तौ ।
तिष्ठति संस्कारवशाच्चक्रभ्रमवद्१ धृतशरीरः ॥ ६७॥

1 भ्रमिवद् V, K
प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८॥

१पुरुषार्थ२ज्ञानमि३दं गुह्यं परमर्षिणा समाख्यातम् ।
स्थित्युत्पत्तिप्रलया४श्चिन्त्यन्ते५ यत्र भूतानाम् ॥ ६९॥

1 परमा K 2 र्थं V1, D; र्था Y 3 र्थम् Y
4 प्रलयाच् K 5 चिन्त्यते V1, K; चिन्त्यन्ते च Y
एतत् पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।
आसुरिरपि पञ्चशिखाय तेन१ बहुधा२कृतं तन्त्रम् ॥ ७०॥